श्रीराम जयराम जयजयराम
श्री
रामः श्रीकरः श्रीदः श्रीसेव्यः श्रीनिकेतनः ॥रा
क्षसान्तकरो धीरो भक्तभाग्यविवर्धनः ॥१॥म
रेति किलयन्नाम जपन् व्याधोऽभवन्मुनिः ॥ज
न्मदुःखनुदं काव्यं दिव्यं व्यरचयन्महत् ॥२॥य
दा यदा भवेद्ग्लानिर्धर्मस्य च तदा तदा ॥रा
क्षसान्तकरो रामो सम्भवत्यात्ममायया ॥३॥म
हामोहकरी माया यत्प्रसादाद्विनश्यति ॥ज
घन्या अपि पूजाश्च पावना बहवोऽभवन् ॥४॥य
स्य प्रसादतो जातो हनूमान् महतो महान् ॥ज
न्ममृत्युजरादुःखान्मुक्तोऽद्यापिविराजते ॥५॥य
स्मात्परतरन्नास्ति यस्य नाम महद्यशः ॥रा
मं लोकाभिरामं तं व्रजामः शरणं मुदा ॥६॥म
मैतयिति नः सर्वान् संसारात्तारयिष्यति ॥श्री
राम जयरामेति जय जयेति जपाद्धृवम् ॥७॥रा
म एव परब्रह्म राम एव परागतिः ॥म
नः शान्तिकरोरामो मन्मथारिनमस्कृतः ॥८॥ज
यत्रययुतः श्रेष्ठो रामत्रययुतो मनुः ॥यत्र श्रीराममहिमा त्रिसत्यमिति वर्ण्यते ॥९॥
रा
मः श्रीसीतया युक्तः सर्वैश्वर्यद इत्यपि ॥म
ह्त्वमस्यानन्तं यत् तच्छ्रीरामपदे स्थितम् ॥१०॥ज
य रामपदेनायं जयरुप इतीर्यते ॥य
तोऽसौ जयरुपो हि जयार्हो जयदस्तथा ॥११॥ज
य जयेति पदेऽर्थोयं द्योतते सर्वरिद्धिदः ॥य
स्मिन्न माया नाविद्या तस्मिन्मोहःकथं भवेत् ॥१२॥रा
मत्रये दाशरथिश्चेशो ब्रह्मेति कथ्यते ॥म
रुद्रात्मजसन्त्राता मोचयेन्मदनादपि ॥१३॥श्री
रामेति पदं पूर्वं जय रामेति वै ततः ॥रा
मोऽत्र द्विर्जयात्पश्चाद्वर्तते मनुराजके ॥१४॥म
हासंसारव्यामोहान्मोचयत्याश्वयं मनुः ॥ज
पनीयः कीर्तनीयो मुदा सर्वैश्च सर्वदा ॥१५॥य
क्षराक्षसभूताद्या पीडाऽनेन विनश्यति ॥रा
मो धनुर्धरो नित्यं संरक्षति पदे पदे ॥१६॥म
दोन्मत्तनरैश्चापि न दुःखं लभते कदा ॥ज
न्मसन्तापचंद्रोऽयं ज्ञानविज्ञानदो मनुः ॥१७॥य
त्र कुत्रापि जप्योऽयं शुचिर्वाप्यशुचिस्तथा ॥ज
पतः शान्तिमाप्नोति प्रशस्तोऽस्मिन् कलौ मतः ॥१८॥य
ज्ञानां जपयज्ञोऽस्मि भगवद्वाक्यमीदृशम् ॥रा
मेणैव पुरादिष्टः षडङगादिविवर्जितः ॥१९॥म
रुत्सुतावताराय रामदासाय धीमते ॥श्री
रमवरयुक्तोऽयं सुलभोऽपि फलाधिकः ॥२०॥त्रैलोक्यपावनीपुण्या मुक्तिदा राघव स्तुतिः ॥
भद्रं तनोतु लोकेषु गंगेव किल सर्वदा ॥
इति श्रीरामदासानुग्रहीत रामपदकंजभृंगायमान
श्रीश्रीधरस्वामीविरचितं श्रीराममंत्रराजस्तोत्रं संपूर्णम् ॥