मयूरेश्वरस्तोत्रम्
श्रीगणेशाय नमः ॥ सर्वे ऊचुः ॥
परब्रह्मरूपं चिदानन्दरूपं परेशं सुरेशं गुणाब्धिं गुणेशम् ॥
गुणातीतमीशं मयूरेशवन्द्यं गणेशं नताः स्मो नताः स्मो नताः स्मः ॥१॥
जगद्वन्द्यमेकं पराकारमेकं गुणानां परं कारणं निर्विकल्पम् ॥
जगत्पालकं हारकं तारकं तं मयूरेशवन्द्यं नताः स्मो नताः स्मः ॥२॥
महादेवसूनुं महादैत्यनाशं महापूरुषं सर्वदा विघ्ननाशम् ॥
सदा भक्तपोषं परं ज्ञानकोषं मयू० ॥३॥
अनादिं गुणादिं सुरादिं शिवाया महातोषदं सर्वदा सर्ववन्द्यम् ॥
सुरार्यन्तकं भुक्तिमुक्तिप्रदं तं मयू० ॥४॥
परं मायिनं मायिनामप्यगम्यं मुनिध्येयमाकाशकल्पं जनेशम् ॥
असंख्यावतारं निजाज्ञाननाशं मयू० ॥५॥
अनेकक्रियाकारकं श्रुत्यगम्यं त्रयीबोधितानेककर्माबीजम् ॥
क्रियासिद्धिहेतुं सुरेन्द्रादिसेव्यं मयू० ॥६॥
महाकालरुप निमेषादिरूपं कलाकल्परूपं सदागम्यरूपम् ॥
जनज्ञानहेतुं नृणां सिद्धिदं तं मयू० ॥७॥
महेशादिदेवैः सदा ध्येयपादं सदा रक्षकं तत्पदानां हतारिम् ॥
मुदा कामरूपं कृपावारिंधि तं मयू० ॥८॥
सदा भक्ति नाथे प्रणयपरमानन्दसुखदो यतस्त्वं लोकानां परमकरुणामाशुतनुषे ॥
षडूर्मीनां वेगं सुरवरं विनाशं नय विभो ततो भक्तिः श्र्लाग्या तव भजनतोऽनन्यसुखदा ॥९॥
किमस्माभिः स्तोत्रं सकलसुरतापालक विभो विधेयं विश्वात्मन्नगणितगुनानामधिपते ॥
न संख्याता भूमिस्तवं गुणगणानां त्रिभुवने न रूपाणां देव प्रकटय कृपा नोऽसुरहते ॥१०॥
मयूरेशं नमस्कृत्य ततो देवोऽब्रविच्च तान् ॥
य इदं पठते स्तोत्रं स कामाँल्लभतेऽखिलान् ॥११॥
सर्वत्र जयमाप्नोति मानमायुः श्रियं परम् ॥
पुत्रवान् धनसम्पन्नो वश्यतामखिलं नयेत् ॥१२॥
सहस्त्रावर्तनात्कारागृहस्थं मोचयेज्जनम् ॥
नियुतावर्तनान्मर्त्योऽसाध्यं यत्सायेत्क्षणात् ॥१३॥
इति श्रीगणेशपुराणे मयूरेश्वरस्तोत्रं सम्पूर्णम् ।