शंकराचार्य कृतगुर्वष्टकम्
शरीरं सुरूपं तथा वा कलत्रं यशश्चारु चित्रं धनं मेरुतुल्यम् ।
मनश्चेन्न लग्नं हरेरंघ्रिपद्मे ततः किं ततः किं ततः किं ततः किम् ॥ १ ॥
कलत्रं धनं पुत्रपौत्रादि सर्वं गृहं बांधवाः सर्वमेतद्धि जातम् ।
गुरोरंघ्रिपद्मे मनश्चेन्न लग्नं ततः किं० ॥ २ ॥
षडंगादिदेवो मुखे शास्त्रविद्या कवित्वादि गद्यं सुपद्यं करोति । गुरोरंघ्रिपद्मे० ॥ ३ ॥
विदेशेषु मान्यः स्वदेशेषु धन्यः सदाचारवृत्तेषु मत्तो न चान्यः । गुरोरंघ्रिपद्मे ॥ ४ ॥
क्षमामंडले भूपभूपालवृन्दैः सदा सेवितं यस्य पादारविंदम् । गुरोरंघ्रिपद्मे० ॥ ५ ॥
यशो मे गतं दिक्षु दानप्रतापाज्जगद्वस्तु सर्वं करे यत्प्रसादात् । गुरोरंघ्रिपद्मे० ॥ ६ ॥
न भोगे न योगे न वा वाजिराजौ न कांतामुखे नैव विषेशु चित्तम् । गुरोरंघ्रिपद्मे० ॥ ७ ॥
अरण्ये न वा स्वस्य गेहे न कार्ये न देहे मनो वर्तते मे त्वनर्घ्ये । गुरोरंघ्रिपद्मे० ॥ ८ ॥
अनर्घ्याणि रत्नानि मुक्तानि सम्यक्समालिंगिता कामिनी यामिनीषु । गुरोरंघ्रिपद्मे० ॥९॥
गुरोरष्टकं यः पठेत्पुण्यदेही यतिर्भूपतिर्ब्रह्मचारी च गेही ।
लभेद्वांछितार्थं पदं ब्रह्मसंज्ञं गुरोरुक्तवाक्ये मनो यस्य लग्नम् ॥ १० ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीमच्छंकराचार्यविरचितं गुरोरष्टकं समाप्तम् ।