दशावतारस्तोत्रम्
चलल्लोलकल्लोलकल्लोलिनीशस्फुरन्नक्रचक्रातिवक्रांबुलीनः ।
हतो येन मीनावतारेण शंखः स पायादपायाज्जगद्वासुदेवः ॥ १ ॥
धरानिर्जरारातिभारादपारादकूपारनीरातुराधः पतंती ।
धृता कूर्मरुपेण पृष्ठोपरिष्टे स देवो मुदे वोऽस्तु शेषाङ्गशायी ॥ २ ॥
उदग्रे रदाग्रे सगोत्रापि गोत्रा स्थिता तस्थुषः केतकाग्रे षडंघ्रेः ।
तनोति श्रियं सश्रियं नस्तनोतु प्रभुः श्रीवराहावतारो मुरारिः ॥ ३ ॥
उरोदार आरंभसंरंभिणोऽसौ रमासंभ्रमाभंगुराग्रैर्नखाग्रः ।
स्वभक्तातिभक्त्याऽभिव्यक्तेन दारुण्यघौघं सदा वः स हिंस्यान्नृसिंहः ॥ ४ ॥
छलादाकलय्य त्रिलोकीं बलीयान् बलिं सम्बबन्ध त्रिलोकीबलीयः ।
तनुत्वं दधानां तनुं संदधानो विमोहं मनो वामनो वः स कुर्यात् ॥ ५ ॥
हतक्षत्रियासृक्प्रपानप्रमत्तप्रनृत्यत्पिशाचप्रगीतप्रतापः ।
धराकारि येनाग्रजन्माग्रहारं विहारं क्रियान्मानसे वः स रामः ॥ ६ ॥
नतग्रीवसुग्रिवसाम्राज्यहेतुर्दशग्रीवसन्तानसंहारकेतुः ।
धनुर्येन भग्नं महत्कामहंतुः स मे जानकीजानिरेनांसि हन्तु ॥ ७ ॥
घनाद् गोधनं येन गोवर्धनेन व्यरक्षि प्रतापेन गोवर्धनेन ।
हतारातिचक्री रणध्वस्तचक्री पदध्वस्तचक्री स नः पातु चक्री ॥ ८ ॥
धराबद्धपद्मासनस्थांघ्रियष्टिर्नियम्यानिलं न्यस्तनासाग्रदृष्टिः ।
य आस्ते कलौ योगिनां चक्रवर्ती स बुद्धः प्रबुद्धोऽस्तु निचिंतवर्तीश ॥ ९ ॥
दुरापारसंसारसंहारकारी भवत्यश्ववारः कृपाणप्रहारी ।
मुरारिर्दशाकारधारीहकल्की करोतु द्विषां ध्वंसनं वः स कल्की ॥ १० ॥
इति श्रीमच्छंकराचार्यविरचितं दशावतारस्तोत्रं संपूर्णम् ।