Get it on Google Play
Download on the App Store

गोपीगीतम्

गोप्य ऊचुः ।
जयति तेऽधिकं जन्मना व्रजः
श्रयत इन्दिरा शश्वदत्र हि ।
दयित दृश्यतां दिक्षु तावका-
स्त्वयि धृतासवस्त्वां विचिन्वते ॥१॥
शरदुदाशये साधुजातस-
त्सरसिजोदरश्रीमुषा दृशा ।
सुरतनाथ तेऽशुल्कदासिका
वरद निघ्नतो नेह किं वधः ॥२॥
विषजलाप्ययाद्व्यालराक्षसा-
द्वर्षमारुताद्वैद्युतानलात् ।
वृषमयात्मजाद्विश्वतोभया-
दृषभ ते वयं रक्षिता मुहुः ॥३॥
न खलु गोपिकानन्दनो भवा-
नखिलदेहिनामन्तरात्मदृक् ।
विखनसार्थितो विश्वगुप्तये
सख उदेयिवान्सात्वतां कुले ॥४॥
विरचिताभयं वृष्णिधुर्य ते
चरणमीयुषां संसृतेर्भयात् ।
करसरोरुहं कान्त कामदं
शिरसि धेहि नः श्रीकरग्रहम् ॥५॥
व्रजजनार्तिहन्वीर योषितां
निजजनस्मयध्वंसनस्मित ।
भज सखे भवत्किंकरीः स्म नो
जलरुहाननं चारु दर्शय ॥६॥
प्रणतदेहिनां पापकर्शनं
तृणचरानुगं श्रीनिकेतनम् ।
फणिफणार्पितं ते पदांबुजं
कृणु कुचेषु नः कृन्धि हृच्छयम् ॥७॥
मधुरया गिरा वल्गुवाक्यया
बुधमनोज्ञया पुष्करेक्षण ।
विधिकरीरिमा वीर मुह्यती-
रधरसीधुनाऽऽप्याययस्व नः ॥८॥
तव कथामृतं तप्तजीवनं
कविभिरीडितं कल्मषापहम् ।
श्रवणमङ्गलं श्रीमदाततं
भुवि गृणन्ति ते भूरिदा जनाः ॥९॥
प्रहसितं प्रिय प्रेमवीक्षणं
विहरणं च ते ध्यानमङ्गलम् ।
रहसि संविदो या हृदिस्पृशः
कुहक नो मनः क्षोभयन्ति हि ॥१०॥
चलसि यद्व्रजाच्चारयन्पशून्
नलिनसुन्दरं नाथ ते पदम् ।
शिलतृणाङ्कुरैः सीदतीति नः
कलिलतां मनः कान्त गच्छति ॥११॥
दिनपरिक्षये नीलकुन्तलै-
र्वनरुहाननं बिभ्रदावृतम् ।
घनरजस्वलं दर्शयन्मुहु-
र्मनसि नः स्मरं वीर यच्छसि ॥१२॥
प्रणतकामदं पद्मजार्चितं
धरणिमण्डनं ध्येयमापदि ।
चरणपङ्कजं शंतमं च ते
रमण नः स्तनेष्वर्पयाधिहन् ॥१३॥
सुरतवर्धनं शोकनाशनं
स्वरितवेणुना सुष्ठु चुम्बितम् ।
इतररागविस्मारणं नृणां
वितर वीर नस्तेऽधरामृतम् ॥१४॥
अटति यद्भवानह्नि काननं
त्रुटिर्युगायते त्वामपश्यताम् ।
कुटिलकुन्तलं श्रीमुखं च ते
जड उदीक्षतां पक्ष्मकृद्दृशाम् ॥१५॥
पतिसुतान्वयभ्रातृबान्धवा-
नतिविलङ्घ्य तेऽन्त्यच्युतागताः ।
गतिविदस्तवोद्गीतमोहिताः
कितव योषितः कस्त्यजेन्निशि ॥१६॥
रहसि संविदं हृच्छयोदयं
प्रहसिताननं प्रेमवीक्षणम् ।
बृहदुरः श्रियो वीक्ष्य धाम ते
मुहुरतिस्पृहा मुह्यते मनः ॥१७॥
व्रजवनौकसां व्यक्तिरङ्ग ते
वृजिनहन्त्र्यलं विश्वमङ्गलम् ।
त्यज मनाक् च नस्त्वत्स्पृहात्मनां
स्वजनहृद्रुजां यन्निषूदनम् ॥१८॥
यत्ते सुजातचरणाम्बुरुहं स्तनेष
भीताः शनैः प्रिय दधीमहि कर्कशेषु ।
तेनाटवीमटसि तद्व्यथते न किंस्वित्
कूर्पादिभिर्भ्रमति धीर्भवदायुषां नः ॥१९॥
इति श्रीमद्भागवत महापुराणे पारमहंस्यां संहितायां
दशमस्कन्धे पूर्वार्धे रासक्रीडायां गोपीगीतं नामैकत्रिंशोऽध्यायः॥

कृष्ण स्तोत्रे

स्तोत्रे
Chapters
गोपालस्तोत्रम् गोपालहृदयस्तोत्रम् गोविन्द दामोदर स्तोत्र गोविन्दस्तोत्रम् शालिग्रामस्तोत्र नारायणाय अष्टाक्षरमाहात्म्यं उक्ति प्रत्युक्ति स्तोत्रम् श्री कृष्ण सुप्रभातम् कर्पूर आरती मन्त्रः श्रीकृष्णस्य सप्तदशाक्षरो मन्त्रः ज्वर रचित कृष्णस्तोत्र धर्मकृतं श्रीकृष्णस्तोत्र नारायणकृतं श्रीकृष्णस्तोत्र ब्रह्मकृतं श्रीकृष्णस्तोत्र शम्भुकृतं श्रीकृष्णस्तोत्र सरस्वतीकृतं श्रीकृष्णस्तोत्र मोहिनी रचित स्तोत्र श्रीकृष्णस्य द्वाविंशत्यक्षरो मन्त्रोः श्री कृष्णजयन्ती निर्णयः कृष्णद्वादशनामस्तोत्रम् गर्भस्तुतिः गोपालस्तुतिः गोपालस्तोत्र गोपालविंशतिस्तोत्रम् गोपीगीतम् गोविन्द स्तोत्रम् गोविन्दराजप्रपत्तिः नख स्तुति श्रीमधुसूदनस्तोत्रम् जयदेवककृत अष्टपदि श्रीकॄष्ण स्तोत्रे त्रैलोक्यमंगलकवचम् श्रीबालरक्षा श्रीकृष्णस्तवराजः भगवन्मानसपूजा देवकृतगर्भस्तुतिः वसुदेवकृतश्रीकृष्णस्तोत्रम् श्रीवेंकटेश्वरमंगलस्तोत्रम् बालकृतकृष्णस्तोत्रम् गोपालस्तोत्रम् जगन्नाथाष्टकम् मोहिनीकृतश्रीकृष्णस्तोत्रम् ब्रह्मदेवकृतकृष्णस्तोत्रम् श्रीकृष्णस्तोत्रम् श्रीकृष्णाष्टोत्तरशतनामस्तोत्रम् इन्द्रकृतकृष्णस्तोत्रम् विप्रपत्‍नीकृतकृष्णस्तोत्रम् गोपालविंशतिस्तोत्रम् श्रीगोविंदाष्टकम् गोपालाष्टकम् श्रीकृष्णाष्टकम् सत्यव्रतोक्तदामोदरस्तोत्रम् ज्वरकृतकृष्णस्तोत्रम् श्री जगन्नाथ स्तोत्र श्रीगोविन्ददामोदरस्तोत्र सन्तानगोपाल स्तोत्र द्वादश स्तोत्राणि गोविन्दराजप्रपत्तिः