भगवन्मानसपूजा
ह्रदंभोजे कृष्णः सजलजलदश्यामलतनुः सरोजाक्षः स्त्रग्वी मुकुटकटकाद्याभरणवान् ।
शरद्राकानाथप्रतिमवदनः श्रीमुरलिकां वहन्ध्येयो गोपीगणपरिवृतः कुङकुमचितः ॥ १ ॥
पयोम्भोधेर्द्वीपान्मम ह्रदयमायाहि भगवन्मणिवातभ्राजत्कनकवरपीठं भज हरे ।
सूचिह्नौ ते पादौयदुकुलजनेनेज्मि सुजलैर्गृहाणेदं दूर्वाफलजलवदर्घ्यं मुररिपो ॥ २ ॥
त्वमाचामोपेन्द्र त्रिदशसरिदंभोऽतिशिशिरं भजस्वेमं पञ्चामृतरचितमाप्लावमघहन् ।
द्युनद्याः कालिंद्या अपि कनककुंभस्थितमिदं जलं तेन स्नानं कुरु कुरु कुरुष्वाचमनकम् ॥ ३ ॥
तडिद्वर्णे वस्त्रे भज विजयकांताधिहरण प्रलंबारिभ्रातर्मृदुलमुपवीतं कुरु गले ।
ललाटे पाटीरं मृगमदयुतं धारय हरे गृहाणेदं माल्यं शतदलतुलस्यादिरचितम् ॥ ४ ॥
दशाङ्गं धूपं सद्वरदचरणाग्रेऽर्पितमये मुखं दीपेनेन्दुप्रभवरजसा देव कलये ।
इमौ पाणी वाणीपतिनुत सुकर्पूररजसा विशोध्याग्रे दत्तं सलिलमिदमाचाम नृहरे ॥ ५ ॥
सदा तृप्तान्न षड्रसवदखिलव्यंजनयुतं सुवर्णामत्रे गोघृतचषकयुक्ते स्थितमिदम् ।
यशोदासूनो तत्परमदययाऽशान सखिभिः प्रसादं वांछद्भिः सह तदनुनीरं पिब विभो ॥ ६ ॥
सचन्द्रं तांबूलं मुखरुचिकर भक्षय हरे फलं स्वादु प्रीत्या परिमलवदास्वादय चिरम् ।
सपर्या पर्याप्त्यै कनकमणिजातं स्थितमिदं प्रदीपैरारातिं जलधितनयाश्लिष्ट रचये ॥ ७ ॥
विजातीयैः पुष्पैरभिसुरभिभिर्बिल्वतुलसीयुतैश्चेमं पुष्पांजलिमजित ते मूर्ध्नि निदधे ।
तव प्रादक्षिण्यक्रमणमघविध्वंसिरचितं चतुर्वारं विष्णो जनिपथगतिश्रान्तविदुषा ॥ ८ ॥
नमस्कारोऽष्टाङ्गः सकलदुरितं ध्वंसनपटुः कृतं नृत्यं गीतं स्तुतिरपि रमाकांत त इयम् ।
तव प्रीत्यै भूयादहमपि च दासस्तव विभो कृतं छिद्रं पूर्णं कुरु कुरु नमस्तेऽस्तु भगवन् ॥ ९ ॥
सदा सेव्यः कृष्णः सजलघननीलः करतले दधानो दध्यन्नं तदनु नवनीतं मुरलिकाम् ।
कदाचित्कान्तानां कुचलसितपत्रालिरचनासमासक्तं स्निग्धैः सह शिशुविहारं विरचयन् ॥ १० ॥
मणिकर्णीच्छया जातमिदं मानसपूजनम् । यः कुर्वीतोषसि प्रारास्तस्य कृष्णः प्रसीदति ॥ ११ ॥
इति श्रीशंकराचार्यविरचितं भगवन्मानसपूजनम् ।