विष्णुस्तवनं मार्कण्डेयप्रोक्तं
मार्कण्डेय उवाच
नरं नृसिंहं नरनाथमच्युतं प्रलम्बबाहुं कमलायतेक्षणम् ।
क्षितीश्वरैरर्चितपादपङ्कजं नमामि विष्णुं पुरुषं पुरातनम् ॥१॥
जगत्पतिं क्षीरसमुद्रमन्दिरं तं शार्ङ्गपाणिं मुनिवृन्दवन्दितम् ।
श्रियः पतिं श्रीधरमीशमीश्वरं नमामि गोविन्दमनन्तवर्चसम् ॥२॥
अजं वरेण्यं जनदुःखनाशनं गुरुं पुराणं पुरुषोत्तमं प्रभुम् ।
सहस्रसूर्यद्युतिमन्तमच्युतं नमामि भक्त्या हरिमाद्यमाधवम् ॥३॥
पुरस्कृतं पुण्यवतां परां गतिं क्षितीश्वरं लोकपतिं प्रजापतिम् ।
परं पराणामपि कारणं हरिं नमामि लोकत्रयकर्मसाक्षिणम् ॥४॥
भोगे त्वनन्तस्य पयोदधौ सुरः पुरा हि शेते भगवाननादिकृत् ।
क्षीरोदवीचीकणिकाम्बुनोक्षितं तं श्रीनिवासं प्रणतोऽस्मि केशवम् ॥५॥
यो नारसिंहं वपुरास्थितो महान् सुरो मुरारिर्मधुकैटभान्तकृत् ।
समस्तलोकार्तिहरं हिरण्यकं नमामि विष्णुं सततं नमामि तम् ॥६॥
अनन्तमव्यक्तमतीन्द्रियं विभुं स्वे स्वे हि रूपे स्वयमेव संस्थितम् ।
योगेश्वरैरेव सदा नमस्कृतं नमामि भक्त्या सततं जनार्दनम् ॥७॥
आनन्दमेकं विरजं विदात्मकं वृन्दालयं योगिभिरेव पूजितम् ।
अणोरणीयांसमवृद्धिमक्षयं नमामि भक्तप्रियमीश्वरं हरिम् ॥८॥
इति ।
श्रीनरसिंहपुराणे मार्कण्डेयचरित्रे दशमोऽध्यायः ॥१०॥