आचार्यकृतषट्पदी
श्रीगणेशाय नम: ।
अविनयमपनय विष्णो दमय मन: शमय विषयमृगतृष्णाम् । भूतदयां विस्तारय तारय संसारसागरत: ॥ १ ॥
दिव्यधुनीमकरंदे परिमलपरिभोगसच्चिदानंदे । श्रीपतिपदारविंद भवभयखेदच्छिदे वंदे ॥ २ ॥
सत्यपि भेदापगमे नाथ तवाहं न मामकीनस्त्वम् । सामुद्रो हि तरंग: क्वचन समुद्रो न तारंग: ॥ ३ ॥
उद्धृतनग नगभिदनुज दनुजकुलामित्र मित्रशशिदृष्टे । दृष्टे भवति प्रभवति नभवति किं भवतिरस्कार: ॥ ४ ॥
मत्स्यादिभिरवतारैरवताऽवता सदा वसुधाम् । परमेश्वर परिपाल्यो भवता भवताप भीतोऽहम् ॥ ५ ॥
दामोदर गुणमंदिर सुंदरवदनारविंद गोविंद । भवजलधिमथनमंदर परमं दरमपनय त्वं मे ॥ ६ ॥
नारायण करुणामय शरणं करवाणि तावकौ चरणौ । इति षट्पदी मदीये वदनसरोजे सदा वसतु ॥ ७ ॥
इति श्रीमच्छंकराचार्यविरचितं षट्पदीस्तोत्रंसंपूर्णम ॥