Get it on Google Play
Download on the App Store

श्रीऋण-हरण-कर्तृ-गणपति-स्तोत्र-मन्त्र

ध्यान
ॐ सिन्दूर-वर्णं द्वि-भुजं गणेशं लम्बोदरं पद्म-दले निविष्टम्।
ब्रह्मादि-देवैः परि-सेव्यमानं सिद्धैर्युतं तं प्रणामि देवम्।।

।।मूल-पाठ।।
सृष्ट्यादौ ब्रह्मणा सम्यक् पूजितः फल-सिद्धये।
सदैव पार्वती-पुत्रः ऋण-नाशं करोतु मे।।१
त्रिपुरस्य वधात् पूर्वं शम्भुना सम्यगर्चितः।
सदैव पार्वती-पुत्रः ऋण-नाशं करोतु मे।।२
हिरण्य-कश्यप्वादीनां वधार्थे विष्णुनार्चितः।
सदैव पार्वती-पुत्रः ऋण-नाशं करोतु मे।।३
महिषस्य वधे देव्या गण-नाथः प्रपुजितः।
सदैव पार्वती-पुत्रः ऋण-नाशं करोतु मे।।४
तारकस्य वधात् पूर्वं कुमारेण प्रपूजितः।
सदैव पार्वती-पुत्रः ऋण-नाशं करोतु मे।।५
भास्करेण गणेशो हि पूजितश्छवि-सिद्धये।
सदैव पार्वती-पुत्रः ऋण-नाशं करोतु मे।।६
शशिना कान्ति-वृद्धयर्थं पूजितो गण-नायकः।
सदैव पार्वती-पुत्रः ऋण-नाशं करोतु मे।।७
पालनाय च तपसां विश्वामित्रेण पूजितः।
सदैव पार्वती-पुत्रः ऋण-नाशं करोतु मे।।८
इदं त्वृण-हर-स्तोत्रं तीव्र-दारिद्र्य-नाशनं,
एक-वारं पठेन्नित्यं वर्षमेकं सामहितः।
दारिद्र्यं दारुणं त्यक्त्वा कुबेर-समतां व्रजेत्।।

स्तोत्रम्

मराठी स्तोत्र संग्राहक
Chapters
श्रीराधाकृष्णसहस्त्रनामस्तोत्रम् सन्तानगोपाल स्तोत्र श्री-कृष्ण-सहस्त्रनाम-स्तोत्र श्री गोपाल सहस्त्रनामस्तोत्रम् श्रीऋण-हरण-कर्तृ-गणपति-स्तोत्र-मन्त्र ऋणमोचन मंगल स्तोत्र श्री शीतलाष्टकं श्री नारायण कवच श्री विष्णु सहस्त्रनामस्तोत्र शनि वज्र पञ्जर कवच दशरथकृत-शनि-स्तोत्र श्रीलक्ष्मीस्तव देवकृत लक्ष्मी स्तोत्रम् महालक्ष्मी-कवच दुर्गाष्टोत्तरशतनामस्तोत्रं ( विश्वसारतन्त्र ) श्री विनायक अष्टोत्तरशत नामावली श्री सिद्धि विनायक नामावलि गुरु अष्टोत्तरशतनामावलिः शिवाष्टकं श्री वैद्यनाथाष्टकम् श्रीविश्वनाथाष्टकं दारिद्र्यदहनशिवस्तोत्रं चन्द्रशेखराष्टकं द्वादश ज्योतिर्लिङ्ग स्तोत्रम् केतु १०८ राहु अष्टोत्तरशतनामावलिः ॥श्री सिद्धमंगल स्तोत्र॥