स्तुतिशतकम्
पाण्डित्यं परमेश्वरि स्तुतिविधौ नैवाश्रयन्ते गिरां वैरिञ्चान्यपि गुम्फनानि विगलद्गर्वाणि शर्वाणि ते ।
स्तोतुं त्वां परिफुल्लनीलनलिनश्यामाक्षि कामाक्षि मां वाचालीकुरुते तथापि नितरां त्वत्पादसेवादरः ॥१॥
तापिञ्छस्तबकत्विषे तनुभृतां दारिद्र्यमुद्राद्विषे संसाराख्यतमोमुषे पुररिपोर्वामाङ्कसीमाजुषे ।
कम्पातीरमुपेयुषे कवयतां जिह्वाकुटीं जग्मुषे विश्वत्राणपुषे नमोऽस्तु सततं तस्मै परंज्योतिषे ॥२॥
ये सन्ध्यारुणयन्ति शंकरजटाकान्तारचन्रार्भकं सिन्दूरन्ति च ये पुरन्दरवधूसीमन्तसीमान्तरे ।
पुण्य।म् ये परिपक्कयन्ति भजतां काञ्चीपुरे माममी पायासुः परमेश्वरप्रणयिनीपादोद्भवाः पांसवः ॥३॥
कामाडम्बरपूरया शशिरुचा कम्रस्मितानां त्विषा कामारेरनुरागसिन्धुमधिकं कल्लोलितं तन्वती ।
कामाक्षीति समस्तसज्जननुता कल्याणदात्री नृणां कारुण्याकुलमानसा भगवती कम्पातटे जृम्भते ॥४॥
कामाक्षीणपराक्रमप्रकटनं सम्भावयन्ती दृशा श्यामा क्षीरसहोदरस्मितरुचिप्रक्षालिताशान्तरा ।
कामाक्षीजनमौलिभूषणमणिर्वाचां परा देवता कामाक्षीति विभाति कापि करुणा कम्पातटिन्यास्तटे ॥५॥
श्यामा काचन चन्द्रिका त्रिभुवने पुण्यात्मनामानने सीमाशून्यकवित्ववर्षजननी या कापि कादम्बिनी ।
मारारातिमनोविमोहनविधौ काचितत्तमःकन्दली कामाक्ष्याः करुणाकटाक्षलहरी कामाय मे कल्पताम् ॥६॥
प्रौढध्वान्तकदम्बके कुमुदिनीपुण्यांकुरं दर्शयन् ज्योत्स्नासंगमनेऽपि कोकमिथुनं मिश्रं समुद्भावयन् ।
कालिन्दीलहरीदशां प्रकटयन्कम्रां नभस्यद्भुतां कश्चिन्नेत्रमहोत्सवो विजयते काञ्चीपुरे शूलिनः ॥७॥
तन्द्राहीनतमालनीलसुषमैस्तारुण्यलीलागृहैः तारानाथकिशोरलाञ्छितकचैस्ताम्रारविन्देक्षणैः ।
मातः संश्रयतां मनो मनसिजप्रागल्भ्यनाडिन्धमैः कम्पातीरचरैर्घनस्तनभरैः पुण्याङ्करैः शांकरैः ॥८॥
नित्यं निश्चलतामुपेत्य मरुतां रक्षाविधिं पुष्णती तेजस्संचयपाटवेन किरणानुष्णद्युतेर्मुष्णती ।
काञ्चीमध्यगतापि दीप्तिजननी विश्वान्तरे जृम्भते काचिच्चित्रमहो स्मृतापि तमसां निर्वापिका दीपिका ॥९॥
कान्तैः केशरुचां चयैर्भ्रमरितं मन्दस्मितैः पुष्पितं कान्त्या पल्लवितं पदाम्बुरुहयोर्नेत्रत्विषा पत्रितम् ।
कम्पातीरवनान्तरं विदधती कल्याणजन्मस्थली काञ्चीमध्यमहामणिर्विजयते काचित्कृपाकन्दली ॥१०॥
राकाचन्द्रसमानकान्तिवदना नाकाधिराजस्तुता मूकानामपि कुर्वती सुरधुनीनीकाशवाग्वैभवम् ।
श्रीकाञ्चीनगरीविहाररसिका शोकापहन्त्री सताम् एका पुण्यपरम्परा पशुपतेराकारिणी राजते ॥११॥
जाता शीतलशैलतः सुकृतिनां दृश्या परं देहिनां लोकानां क्षणमात्रसंस्मरणतः सन्तापविच्छेदिनी ।
आश्चर्यं बहु खेलनं वितनुते नैश्चल्यमाबिभ्रती कम्पायास्तटसीम्नि कापि तटिनी कारुण्यपाथोमयी ॥१२॥
ऐक्यं येन विरच्यते हरतनौ दम्भावपुम्भावुके रेखा यत्कचसीम्नि शेखरदशां नैशाकरी गाहते ।
औन्नत्यं मुहुरेति येन स महान्मेनासखः सानुमान् कम्पातीरविहारिणा सशरणास्तेनैव धाम्ना वयम् ॥१३॥
अक्ष्णोश्च स्तनयोः श्रिया श्रवणयोर्बाह्वोश्च मूलं स्पृशन्
उत्तंसेन मुखेन च प्रतिदिनं द्रुह्यन्पयोजन्मने । माधुर्येण गिरां गतेन मृदुना हंसाङ्गनां ह्रेपयन्
काञ्चीसीम्नि चकास्ति कोऽपि कवितासन्तानबीजाङ्कुरः ॥१४॥
खण्डं चान्द्रमसं वतंसमनिशं काञ्चीपुरे खेलनं
कालायश्छवितस्करीं तनुरुचिं कर्णजपे लोचने । तारुण्योष्मनखम्पचं स्तनभरं जङ्घास्पृशं कुन्तलं
भाग्यं देशिकसंचितं मम कदा सम्पादयेदम्बिके ॥१५॥
तन्वानं निजकेलिसौधसरणिं नैसर्गिकीणां गिरां
केदारं कविमल्लसूक्तिलहरीसस्यश्रियां शाश्वतम् । अंहोवञ्चनचुञ्चु किंचन भजे काञ्चीपुरीमण्डनं
पर्यायच्छवि पाकशासनमणेः पौष्पेषवं पौरुषम् ॥१६॥
आलोके मुखपङ्कजे च दधती सौधाकरीं चातुरीं चूडालंक्रियमाणपङ्कजवनीवैरागमप्रक्रिया ।
मुग्धस्मेरमुखी घन्सतनतटीमूर्च्छालमध्याञ्चिता काञ्चीसीमनि कामिनी विजयते काचिज्जगन्मोहिनी ॥१७॥
यस्मिन्नम्ब भवत्कटाक्षरजनी मन्देऽपि मन्दस्मित-ज्योत्स्नासंस्नपिता भवत्यभिमुखी तं प्रत्यहो देहिनम् ।
द्रक्षामाक्षिकमाधुरीमदभरव्रीडाकरी वैखरी कामाक्षि स्वयमातनोत्यभिसृतिं वामेक्षणेव क्षणम् ॥१८॥
कालिन्दीजलकान्तयः स्मितरुचिस्वर्वाहिनीपाथसि प्रौढध्वान्तरुचः स्फुटाधरमहोलौहित्यसन्ध्योदये ।
मणिक्योपलकुण्डलांशुशिखिनि व्यामिश्रधूमश्रियः कल्याणैकभुवः कटाक्षसुषमाः कामाक्षि राजन्ति ते ॥१९॥
कलकलरणत्काञ्ची काञ्चीविभूषणमालिका कचभरलसच्चन्द्रा चन्द्रावतंससधर्मिणी ।
कविकुलगिरः श्रावंश्रावं मिलत्पुलकांकुरा विरचितशिरःकम्पा कम्पातटे परिशोभते ॥२०॥
सरसवचसां वीची नीचीभवन्मधुमाधुरी भरितभुवना कीर्तिर्मूर्तिर्मनोभवजित्वरी ।
जननि मनसो योग्यं भोग्यं नृणां तव जायते कथमिव विना काञ्चीभूषे कटाक्षतरङ्गितम् ॥२१॥
भ्रमरितसरित्कूलो नीलोत्पलप्रभयाऽऽभया नतजनतमःखण्डी तुण्डीरसीम्नि विजृम्भते ।
अचलतपसामेकः पाकः प्रसूनशरासन- प्रतिभटमनोहारी नारीकुलैकशिखामणिः ॥२२॥
मधुरवचसो मन्दस्मेरा मतङ्गजगामिनः तरुणिमजुषस्तापिच्छाभास्तमःपरिपन्थिनः ।
कुचभरनताः कुर्युर्भद्रं कुरङ्गविलोचनाः कलितकरुणाः काञ्चीभाजः कपालिमहोत्सवाः ॥२३॥
कमलसुषमाक्ष्यारोहे विचक्षणवीक्षणाः कुमुदसुकृतक्रीडाचूडालकुन्तलबन्धुराः ।
रुचिररुचिभिस्तापिच्छश्रीप्रपञ्चनचुञ्चवः पुरविजयिनः कम्पातीरे स्फुरन्ति मनोरथाः ॥२४॥
कलितरतयः काञ्चीलीलाविधौ कविमण्डली- वचनलहरीवासन्तीनां वसन्तविभूतयः ।
कुशलविधये भूयासुर्मे कुरङ्गविलोचनाः कुसुमविशिखारातेरक्ष्णां कुतूहलविभ्रमाः ॥२५॥
कबलिततमस्काण्डास्तुण्डीरमण्डलमण्डनाः सरसिजवनीसन्तानानामरुन्तुदशेखराः ।
नयनसरणेर्नेदीयंसः कदा नु भवन्ति मे तरुणजलदश्यामाः शम्भोस्तपःफलविभ्रमाः ॥२६॥
अचरममिषुं दीनं मीनध्वजस्य मुखश्रिया सरसिजभुवो यानं म्लानं गतेन च मञ्जुना ।
त्रिदशसदसामन्नं खिन्नं गिरा च वितन्वती तिलकयति सा कम्पातीरं त्रिलोचनसुन्दरी ॥२७॥
जननि भुवने चङ्क्रम्येऽहं कियन्तमनेहसं कुपुरुषकरभ्रष्टैर्दुष्टैर्धनैरुदरम्भरिः ।
तरुणकरुणे तन्द्राशून्ये तरङ्गय लोचने नमति मयि ते किंचित्काञ्चीपुरीमणिदीपिके ॥२८॥
मुनिजनमनःपेटीरत्नं स्फुरत्करुणानटी- विहरणकलागेहं काञ्चीपुरीमणिभूषणम् ।
जगति महतो मोहव्याधेर्नृणां परमौषधं पुरहरदृशां साफल्यं मे पुरः परिजृम्भताम् ॥२९॥
मुनिजनमोधाम्ने धाम्ने वचोमयजाह्नवी- हिमगिरितटप्राग्भारायाक्षराय परात्मने ।
विहरणजुषे काञ्चीदेशे महेश्वरलोचन- त्रितयसरसक्रीडासौधाङ्गणाय नमो नमः ॥३०॥
मरकतरुचां प्रत्यादेशं महेश्वरचक्षुषाम् अमृतलहरीपूरं पारं भवाख्यपयोनिधेः ।
सुचरितफलं काञ्चीभाजो जनस्य पचेलिमं हिमशिखरिणो वंशस्यैकं वतंसमुपास्महे ॥३१॥
प्रणमनदिनारम्भे कम्पानदीसखि तावके सरसकवितोन्मेषः पूषा सतां समुदञ्चितः ।
प्रतिभटमहाप्रौढप्रोद्यत्कवित्वकुमुद्वतीं नयति तरसा निद्रामुद्रां नगेश्वरकन्यके ॥३२॥
शमितजडिमारम्भा कम्पातटीनिकटेचरी निहतदुरितस्तोमा सोमार्धमुद्रितकुन्तला ।
फलितसुमनोवाञ्छा पाञ्चायुधी परदेवता सफलयतु मे नेत्रे गोत्रेश्वरप्रियनन्दिनी ॥३३॥
मम तु धिषणा पीड्या जाड्यातिरेक कथं त्वया कुमुदसुषमामैत्रीपात्रीवतंसितकुन्तलाम् ।
जगति शमितस्तम्भां कम्पानदीनिलयामसौ श्रियति हि गलत्तन्द्रा चन्द्रावतंससधर्मिणीम् ॥३४॥
परिमलपरीपाकोद्रेकं पयोमुचि काञ्चने शिखरिणि पुनर्द्बैधीभावं शशिन्यरुणातपम् ।
अपि च जनयन्कम्बोर्लक्ष्मीमनम्बुनि कोऽप्यसौ कुसुमधनुषः काञ्चीदेशे चकास्ति पराक्रमः ॥३५॥
पुरदमयितुर्वामोत्सङ्गस्थलेन रसज्ञया सरसकविताभाजा काञ्चीपुरोदरसीमया ।
तटपरिसरैर्नीहाराद्रेर्वचोभिरकृत्रिमैः किमिव न तुलामस्मच्चेतो महेश्वरि गाहते ॥३६॥
नयनयुगलीमास्माकीनां कदा नु फलेग्रहीं विदधति गतौ व्याकुर्वाणा गजेन्द्रचमत्क्रियाम् ।
मरतकरुचो माहेशाना घनस्तननम्रिताः सुकृतविभवाः प्राञ्चः काञ्चीवतंसधुरन्धराः ॥३७॥
मनसिजयशःपारम्पर्यं मरन्दझरीसुवां कविकुलगिरां कन्दं कम्पानदीतटमण्डनम् ।
मधुरललितं मत्कं चक्षुर्मनीषिमनोहरं पुरविजयिनः सर्वस्वं तत्पुरस्कुरुते कदा ॥३८॥
शिथिलिततमोलीलां नीलारविन्दविलोचनां दहनविलसत्फालां श्रीकामकोटिमुपास्महे ।
करधृतसच्छूलां कालारिचित्तहरां परां मनसिजकृपालीलां लोलालकामलिकेक्षणाम् ॥३९॥
कलालीलाशाला कविकुलवचःकैरववनी- शरज्ज्योत्स्नाधारा शशधरशिशुश्लाघ्यमुकुटी ।
पुनीते नः कम्पापुलिनतटसौहार्दतरला कदा चक्षुर्मार्गं कनकगिरिधानुष्कमहिषी ॥४०॥
नमः स्तान्नम्रेभ्यः स्तनगरिमगर्वेण गुरुणा दधानेभ्यश्चूडाभरणममृतस्यन्दि शिशिरम् ।
सदा वास्तवेभ्यः सुविधभुवि कम्पाख्यसरिते यशोव्यापारेभ्यः सुकृतविभवेभ्यो रतिपतेः ॥४१॥
असूयन्ती काचिन्मरकतरुचो नाकिमुकुटी-कदम्बं चुम्बन्ती चरणनखचन्द्रांशुपटलैः ।
तमोमुद्रां विद्रावयतु मम काञ्चीर्निलयना हरोत्सङ्गश्रीमन्मणिगृहमहादीपकलिका ॥४२॥
अनाद्यन्ता काचित्सुजननयनानन्दजननी निरुन्धाना कान्तिं निजरुचिविलासैर्जलमुचाम् ।
स्मरारेस्तारल्यं मनसि जनयन्ती स्वयमहो गलत्कम्पा शम्पा परिलसति कम्पापरिसरे ॥४३॥
सुधाडिण्डीरश्रीः स्मितरुचिषु तुण्डीरविषयं परिष्कुर्वाणासौ परिहसितनीलोत्पलरुचिः ।
स्तनाभ्यामानम्रा स्तबकयतु मे काङ्क्षिततरुं दृशामैशानीनां सुकृतफलपाण्डित्यगरिमा ॥४४॥
कृपाधाराद्रोणी कृपणधिषणानां प्रणमतां निहन्त्री सन्तापं निगममुकुटोत्तंसकलिका ।
परा काञ्चीलीलापरिचयवती पर्वतसुता गिरां नीवी देवी गिरिशपरतन्त्रा विजयते ॥४५॥
कवित्वश्रीकन्दः सुकृतपरिपाटी हिमगिरेः विधात्री विश्वेषां विषमशरवीरध्वजपटी ।
सखी कम्पानद्याः पदहसितपाथोजयुगली पुराणो पायान्नः पुरमथनसाम्राज्यपदवी ॥४६॥
दरिद्राणा मध्ये दरदलिततापिच्छसुषमाः स्तनाभोगक्कान्तास्तरुणहरिणाङ्काङ्कितकचाः ।
हराधीना नानाविबुधमुकुटीचुम्बितपदाः कदा कम्पातीरे कथय विहरामो गिरिसुते ॥४७॥
वरीवर्तु स्थेमा त्वयि मम गिरां देवि मनसो नरीनर्तु प्रौढा वदनकमले वाक्यलहरी ।
चरीचर्तु प्रज्ञाजननि जडिमानः परजने सरीसर्तु स्वैरं जननि मयि कामाक्षि करुणा ॥४८॥
क्षणात्ते कामाक्षि भ्रमरसुषमाशिक्षणगुरुः कटाक्षव्याक्षेपो मम भवतु मोक्षाय विपदाम् ।
नरीनर्तु स्वैरं वचनलहरी निर्जरपुरी- सरिद्वीचीनीचीकरणपटुरास्ये मम सदा ॥४९॥
पुरस्तान्मे भूयःप्रशमनपरः स्तान्मम रुजां प्रचारस्ते कम्पातटविहृतिसम्पादिनि दृशोः ।
इमां याच्ञामूरीकुरु सपदि दूरीकुरु तमः- परीपाकं मत्कं सपदि बुधलोकं च नय माम् ॥५०॥
उदञ्चन्ती काञ्चीनगरनिलये त्वत्करुणया समृद्धा वाग्धाटी परिहसितमाध्वी कवयताम् ।
उपादत्ते मारप्रतिभटजटाजूटमुकुटी- कुटीरोल्लासिन्याः शतमखतटिन्या जयपटीम् ॥५१॥
श्रियं विद्यां दद्याज्जननि नमतां कीर्तिममितां सुपुत्रान् प्रादत्ते तव झटिति कामाक्षि करुणा ।
त्रिलोक्यामाधिक्यं त्रिपुरपरिपन्थिप्रणयिनि प्रणामस्त्वत्पादे शमितदुरिते किं न कुरुते ॥५२॥
मनःस्तम्भं स्तम्भं गमयदुपकम्पं प्रणमतां सदा लोलं नीलं चिकुरजितलोलम्बनिकरम् ।
गिरां दूरं स्मेरं धृतशशिकिशोरं पशुपतेः दृशां योग्यं भोग्यं तुहिनगिरिभाग्यं विजयते ॥५३॥
घनश्यामान्कामान्तकमहिषि कामाक्षि मधुरान् दृशां पातानेतानमृतजलशीताननुपमान् ।
भवोत्पाते भीते मयि वितर नाथे दृढभव- न्मनश्शोके मूके हिमगिरिपताके करुणया ॥५४॥
नतानां मन्दानां भवनिगलबन्धाकुलधियां महान्ध्यां रुन्धानामभिलषितसन्तानलतिकाम् ।
चरन्तीं कम्पायास्तटभुवि सवित्रीं त्रिजगतां स्मरामस्तां नित्यं स्मरमथनजीवातुकलिकाम् ॥५५॥
परा विद्या हृद्याश्रितमदनविद्या मरकत- प्रभानीला लीलापरवशितशूलायुधमनाः ।
तमःपूरं दूरं चरणनतपौरन्दरपुरी- मृगाक्षी कामाक्षी कमलतरलाक्षी नयतु मे ॥५६॥
अहन्ताख्या मत्कं कबलयति हा हन्त हरिणी हठात्संविद्रूपं हरमहिषि सस्याङ्कुरमसौ ।
कटाक्षव्याक्षेपप्रकटहरिपाषाणपटलैः इमामुच्चैरुच्चाटय झटिति कामाक्षि कृपया ॥५७॥
बुधे वा मूके वा तव पतति यस्मिन्क्षणमसौ कटाक्षः कामाक्षि प्रकटजडिमक्षोदपटिमा ।
कथंकारं नास्मै करमुकुलचूडालमुकुटा नमोवाकं ब्रूयुर्नमुचिपरिपन्थिप्रभृतयः ॥५८॥
प्रतीचीं पश्यामः प्रकटरुचिनीवारकमणि- प्रभासध्रीचीनां प्रदलितषडाधारकमलाम् ।
चरन्तीं सौषुम्ने पथि परपदेन्दुप्रविगल- त्सुधार्द्रां कामाक्षीं परिणतपरंज्योतिरुदयाम् ॥५९॥
जम्भारातिप्रभृतिमुकुटीः पादयोः पीठयन्ती गुम्फान्वाचां कविजनकृतान्स्वैरमारामयन्ती ।
शम्पालक्ष्मीं मणिगणरुचापाटलैः प्रापयन्ती कम्पातीरे कविपरिषदां जृम्भते भाग्यसीमा ॥६०॥
चन्द्रापीडां चतुरवदनां चञ्चलापाङ्गलीलां कुन्दस्मेरां कुचभरनतां कुन्तलोद्धूतभृङ्गाम् ।
मारारातेर्मदनशिखिनं मांसलं दीपयन्तीं कामाक्षीं तां कविकुलगिरां कल्पवल्लीमुपासे ॥६१॥
कालाम्भोदप्रकरसुषमां कान्तिभिस्तिर्जयन्ती कल्याणानामुदयसरणिः कल्पवल्ली कवीनाम् ।
कन्दर्पारेः प्रियसहचरी कल्मषाणां निहन्त्री काञ्चीदेशं तिलकयति सा कापि कारुण्यसीमा ॥६२॥
ऊरीकुर्वन्नुरसिजतटे चातुरीं भूधराणां पाथोजानां नयनयुगले परिपन्थ्यं वितन्वन् ।
कम्पातीरे विहरति रुचा मोघयन्मेघशैलीं कोकद्वेषं शिरसि कलयन्कोऽपि विद्याविशेषः ॥६३॥
काञ्चीलीलापरिचयवती कापि तापिच्छलक्ष्मीः जाड्यारण्ये हुतवहशिखा जन्मभूमिः कृपायाः ।
माकन्दश्रीर्मधुरकविताचातुरी कोकिलानां मार्गे भूयान्मम नयनयोर्मान्मथी कापि विद्या ॥६४॥
सेतुर्मातर्मरतकमयो भक्तिभाजां भवाब्धौ लीलालोला कुवलयमयी मान्मथी वैजयन्ती ।
काञ्चीभूषा पशुपतिदृशां कापि कालाञ्जनाली मत्कं दुःखं शिथिलयतु ते मञ्जुलापाङ्गमाला ॥६५॥
व्यावृण्वानाः कुवलयदलप्रक्रियावैरमुद्रां व्याकुर्वाणा मनसिजमहाराजसाम्राज्यलक्ष्मीम् ।
काञ्चीलीलाविहृतिरसिके काङ्क्षितं नः क्रियासुः बन्धच्छेदे तव नियमिनां बद्धदीक्षाः कटाक्षाः ॥६६॥
कालाम्भोदे शशिरुचि दलं कैतकं दर्शयन्ती मध्येसौदामिनि मधुलिहां मालिकां राजयन्ती ।
हंसारावं विकचकमले मञ्जुमुल्लासयन्ती कम्पातीरे विलसति नवा कापि कारुण्यलक्ष्मीः ॥६७॥
चित्रं चित्रं निजमृदुतया भर्त्सयन्पल्लवालीं पुंसां कामान्भुवि च नियतं पूरयन्पुण्यभाजाम् ।
जातः शैलान्न तु जलनिधेः स्वैरसंचारशीलः काञ्चीभूषा कलयतु शिवं कोऽपि चिन्तामणिर्मे ॥६८॥
ताम्राम्भोजं जलदनिकटे तत्र बन्धूकपुष्पं तस्मिन्मल्लीकुसुमसुषमां तत्र वीणानिनादम् ।
व्यावृन्वाना सुकृतलहरी कापि काञ्चिनगर्याम् ऐशानी सा कलयतितरामैन्द्रजालं विलासम् ॥६९॥
आहारांशं त्रिदशसदसामाश्रये चातकानाम् आकाशोपर्यपि च कलयन्नालयं तुङ्गमेषाम् ।
कम्पातीरे विहरतितरां कामधेनुः कवीनां मन्दस्मेरो मदननिगमप्रक्रियासम्प्रदायः ॥७०॥
आर्द्रीभूतैरविरलकृपैरात्तलीलाविलासैः आस्थापूर्णैरधिकचपलैरञ्चिताम्भोजशिल्पैः ।
कान्तैर्लक्ष्मीललितभवनैः कान्तिकैवल्यसारैः काश्मल्यं नः कबलयतु सा कामकोटी कटाक्षैः ॥७१॥
आधून्वन्त्यै तरलनयनैराङ्गजीं वैजयन्तीम् आनन्दिन्यै निजपदजुषामात्तकाञ्चीपुरायै ।
आस्माकीनं हृदयमखिलैरागमानां प्रपञ्चैः आराध्यायै स्पृहयतितरामदिमायै जनन्यै ॥७२॥
दूरं वाचां त्रिदशसदसां दुःखसिन्धोस्तरित्रं मोहक्ष्वेलक्षितिरुहवने क्रूरधारं कुठारम् ।
कम्पातीरप्रणयि कविभिर्वर्णितोद्यच्चरित्रं शान्त्यै सेवे सकलविपदां शांकरं तत्कलत्रम् ॥७३॥
खण्डीकृत्य प्रकृतिकुटिलं कल्मषं प्रातिभश्री- शुण्डीरत्वं निजपदजुषां शून्यतन्द्रं दिशन्ती ।
तुण्डीराख्यै महति विषये स्वर्णवृष्टिप्रदात्री चण्डी देवी कलयति रतिं चन्द्रचूडालचूडे ॥७४॥
येन ख्यातो भवति स गृही पूरुषो मेरुधन्वा यद्दृक्कोणे मदननिगमप्राभवं बोभवीति ।
यत्प्रीत्यैव त्रिजगदधिपो जृम्भते किम्पचानः कम्पातीरे स जयति महान्कश्चिदोजोविशेषः ॥७५॥
धन्या धन्या गतिरिह गिरां देवि कामाक्षि यन्मे निन्द्यां भिन्द्यात्सपदि जडतां कल्मषादुन्मिषन्तीम् ।
साध्वी माध्वीरसमधुरताभञ्जिनी मञ्जुरीतिः वाणीवेणी झटिति वृणुतात्स्वर्धुनीस्पर्धिनी माम् ॥७६॥
यस्या वाटी हृदयकमलं कौसुमी योगभाजां यस्याः पीठी सततशिशिरा शीकरैर्माकरन्दैः ।
यस्याः पेटी श्रुतिपरिचलन्मौलिरत्नस्य काञ्ची सा मे सोमाभरणमहिषी साधयेत्काङ्क्षितानि ॥७७॥
एका माता सकलजगतामीयुषी ध्यानमुद्राम् एकाम्राधीश्वरचरणयोरेकतानां समिन्धे ।
ताटङ्कोद्यन्मणिगणरुचा ताम्रकर्णप्रदेशा तारुण्यश्रीस्तबकिततनुस्तापसी कापि बाला ॥७८॥
दन्तादन्तिप्रकटनकरी दन्तिभिर्मन्दयानैः मन्दाराणां मदपरिणतिं मथ्नती मन्दहासैः ।
अङ्कूराभ्यां मनसिजतरोरङ्कितोराः कुचाभ्या-मन्तःकाञ्चि स्फुरति जगतामादिमा कापि माता ॥७९॥
त्रियम्बककुटुम्बिनीं त्रिपुरसुन्दरीमिन्दिरां पुलिन्दपतिसुन्दरीं त्रिपुरभैरवीं भारतीम् ।
मतङ्गकुलनायिकां महिषमर्दनीं मातृकां भणन्ति विबुधोत्तमा विहृतिमेव कामाक्षि ते ॥८०॥
महामुनिमनोनटी महितरम्यकम्पातटी-कुटीरकविहारिणी कुटिलबोधसंहारिणी ।
सदा भवतु कामिनी सकलदेहिनां स्वामिनी कृपातिशयकिंकरी मम विभूतये शांकरी ॥८१॥
जडाः प्रकृतिनिर्धना जनविलोचनारुन्तुदा नरा जननि वीक्षणं क्षणमवाप्य कामाक्षि ते ।
वचस्सु मधुमाधुरीं प्रकटयन्ति पौरन्दरी-विभूतिषु विडम्बनां वपुषि मान्मथीं प्रक्रियाम् ॥८२॥
घन्सतनतटस्फुटस्फुरितकञ्चुलीचञ्चली-कृतत्रिपुरशासना सुजनशीलितोपासना ।
दृशोः सरणिमश्नुते मम कदा नु काञ्चीपुरे परा परमयोगिनां मनसि चित्कुला पुष्कला ॥८३॥
कवीन्द्रहृदयेचरी परिगृहीतकाञ्चीपुरी निरूढकरुणाझरी निखिललोकरक्षाकरी ।
मनःपथदवीयसी मदनशासनप्रेयसी महागुणगरीयसी मम दृशोऽस्तु नेदीयसी ॥८४॥
धनेन न रमामहे खलजनान्न सेवामहे न चापलमयामहे भवभयान्न दूयामहे ।
स्थिरां तनुमहेतरां मनसि किं च काञ्चीरत-स्मरान्तककुटुम्बिनीचरणपल्लवोपासनाम् ॥८५॥
सुराः परिजना वपुर्मनसिजाय वैरायते त्रिविष्टपनितम्बिनीकुचतटी च केलीगिरिः ।
गिरः सुरभयो वयस्तरुणिमा दरिद्रस्य वा कटाक्षसरणौ क्षणं निपतितस्य कामाक्षि ते ॥८६॥
पवित्रय जगत्त्रयीविबुधबोधजीवातुभिः पुरत्रयविमर्दिनः पुलककञ्चुलीदायिभिः ।
भवक्षयविचक्षणैर्व्यसनमोक्षणैर्वीक्षणैः निरक्षरशिरोमणिं करुणयैव कामाक्षि माम् ॥८७॥
कदा कलितखेलनाः करुणयैव काञ्चीपुरे कलायमुकुलत्विषः शुभकदम्बपूर्णाङ्कुराः ।
पयोधरभरालसाः कविजनेषु ते बन्धुराः पचेलिमकृपारसा परिपतन्ति मार्गे दृशोः ॥८८॥
अशोध्यमचलोद्भवं हृदयनन्दनं देहिनाम् अनर्घमधिकाञ्चि तत्किमपि रत्नमुद्द्योतते ।
अनेन समलंकृता जयति शङ्कराङ्कस्थली कदास्य मम मानसं व्रजति पेटिकाविभ्रमम् ॥८९॥
परामृतझरीप्लुता जयति नित्यमन्तश्चरी भुवामपि बहिश्चरी परमसंविदेकात्मिका ।
महद्भिरपरोक्षिता सततमेव काञ्चीपुरे ममान्वहमहंमतिर्मनसि भातु माहेश्वरी ॥९०॥
तमोविपिनधाविनं सततमेव काञ्चीपुरे विहाररसिका परा परमसंविदुर्वीरुहे ।
कटाक्षनिगलैर्दृढं हृदयदुष्टदन्तावलं चिरं नयतु मामकं त्रिपुरवैरिसीमन्तिनी ॥९१॥
त्वमेव सति चण्डिका त्वमसि देवि चामुण्डिका त्वमेव परमातृका त्वमपि योगिनीरूपिणी ।
त्वमेव किल शाम्भवी त्वमसि कामकोटी जया त्वमेव विजया त्वयि त्रिजगदम्ब किं ब्रूमहे ॥९२॥
परे जननि पार्वति प्रणतपालिनि प्रातिभ- प्रदात्रि परमेश्वरि त्रिजगदाश्रिते शाश्वते ।
त्रियम्बककुटुम्बिनि त्रिपदसङ्गिनि त्रीक्षणे त्रिशक्तिमयि वीक्षणं मयि निधेहि कामाक्षि ते ॥९३॥
मनोमधुकरोत्सवं विदधती मनीषाजुषां स्वयम्प्रभववैखरीविपिनवीथिकालम्बिनी ।
अहो शिशिरिता कृपामधुरसेन कम्पातटे चराचरविधायिनी चलति कापि चिन्मञ्जरी ॥९४॥
कलावति कलाभृतो मुकुटसीम्नि लीलावति स्पृहावति महेश्वरे भुवनमोहने भास्वति ।
प्रभावति रमे सदा महितरूपशोभावति त्वरावति परे सतां गुरुकृपाम्बुधारावति ॥९५॥
त्वयैव जगदम्बया भुवनमण्डलं सूयते त्वयैव करुणार्द्रया तदपि रक्षणं नीयते ।
त्वयैव खरकोपया नयनपावके हूयते त्वयैव किल नित्यया जगति सन्ततं स्थीयते ॥९६॥
चराचरजगन्मयीं सकलहृन्मयीं चिन्मयीं गुणत्रयमयीं जगत्त्रयमयीं त्रिधामामयीम् ।
परापरमयीं सदा दशदिशां निशाहर्मयीं परां सततसन्मयीं मनसि चिन्मयीं शीलये ॥९७॥
जय जगदम्बिके हरकुटुम्बिनि वक्त्ररुचा जितशरदम्बुजे घनविडम्बिनि केशरुचा ।
परमवलम्बनं कुरु सदा पररूपधरे मम गतसंविदो जडिमडम्बरताण्डविनः ॥९८॥
भुवनजननि भूषाभूतचन्द्रे नमस्ते कलुषशमनि कम्पातीरगेहे नमस्ते ।
निखिलनिगमवेद्ये नित्यरूपे नमस्ते परशिवमयि पाशच्छेदहस्ते नमस्ते ॥९९॥
क्वणत्काञ्ची काञ्चीपुरमणिविपञ्चीलयझरी-शिरःकम्पा कम्पावसतिरनुकम्पाजलनिधिः ।
घनश्यामा श्यामा कठिनकुचसीमा मनसि मे मृगाक्षी कामाक्षी हरनटनसाक्षी विहरतात् ॥१००॥
समरविजयकोटी साधकानन्दधाटी मृदुगुणपरिपेटी मुख्यकादम्बवाटी ।
मुनिनुतपरिपाटी मोहिताजाण्डकोटी परमशिववधूटी पातु मां कामकोटी ॥१०१॥
इमं परवरप्रदं प्रकृतिपेशलं पावनं परापरचिदाकृतिप्रकटनप्रदीपायितम् ।
स्तवं पठति नित्यदा मनसि भावयन्नम्बिकां जपैरलमलं मखैरधिकदेहसंशोषणैः ॥१०२॥
स्तुतिशतकं सम्पूर्णम् ॥