देवी कवचम्
ॐ नमश्चण्डिकायै मार्कण्डेय उवाच --
ॐ यद्गुह्यं परमं लोके सर्वरक्षाकरं नृणाम् । यन्न कस्यचिदाख्यातं तन्मे ब्रूहि पितामह ॥१॥
ब्रह्मोवाच -- अस्ति गुह्यतमं विप्र सर्वभूतोपकारकम् । देव्यास्तु कवचं पुण्यं तच्छृणुष्व महामुने ॥२॥
प्रथमं शैलपुत्रीति द्वितीयं ब्रह्मचारिणी । तृतीयं चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम् ॥३॥
पञ्चमं स्कन्दमातेति षष्ठं कात्यायनी तथा । सप्तमं कालरात्रिश्च महागौरीति चाष्टमम् ॥४॥
नवमं सिद्धिदात्री च नवदुर्गाः प्रकीर्तिताः । उक्तान्येतानि नामानि ब्रह्मणैव महात्मना ॥५॥
अग्निना दह्यमानास्तु शत्रुमध्यगता रणे । विषमे दुर्गमे चैव भयार्ताः शरणं गताः ॥६।
न तेषां जायते किञ्चिदशुभं रणसङ्कटे । आपदं न च पश्यन्ति शोकदुःखभयङ्करीम् ॥७॥
यैस्तु भक्त्या स्मृता नित्यं तेषां वृद्धिः प्रजायते । ये त्वां स्मरन्ति देवेशि रक्षसि तान्न संशयः ॥८॥
प्रेतसंस्था तु चामुण्डा वाराही महिषासना । ऐन्द्री गजसमारूढा वैष्णवी गरुडासना ॥९॥
नारसिंही महावीर्या शिवदूती महाबला । माहेश्वरी वृषारूढा कौमारी शिखिवाहना ॥१०॥
लक्ष्मीः पद्मासना देवी पद्महस्ता हरिप्रिया । श्वेतरूपधरा देवी ईश्वरी वृषवाहना ॥११॥
ब्राह्मी हंसमारूढा सर्वाभरणभूषिता । इत्येता मातरः सर्वाः सर्वयोगसमन्विताः ॥१२॥
नानाभरणशोभाढ्या नानारत्नोपशोभिताः । श्रैष्ठैश्च मौक्तिकैः सर्वा दिव्यहारप्रलम्बिभिः ॥१३॥
इन्द्रनीलैर्महानीलैः पद्मरागैः सुशोभनैः । दृश्यन्ते रथमारूढा देव्यः क्रोधसमाकुलाः ॥१४॥
शङ्खं चक्रं गदां शक्तिं हलं च मुसलायुधम् । खेटकं तोमरं चैव परशुं पाशमेव च ॥१५॥
कुन्तायुधं त्रिशूलं च शार्ङ्गमायुधमुत्तमम् । दैत्यानां देहनाशाय भक्तानामभयाय च ॥१६॥
धारयन्त्यायुधानीत्थं देवानां च हिताय वै । नमस्तेऽस्तु महारौद्रे महाघोरपराक्रमे ॥१७॥
महाबले महोत्साहे महाभयविनाशिनि । त्राहि मां देवि दुष्प्रेक्ष्ये शत्रूणां भयवर्धिनि ॥१८॥
प्राच्यां रक्षतु मामैन्द्री आग्नेय्यामग्निदेवता । दक्षिणेऽवतु वाराही नैऋत्यां खड्गधारिणी ॥१९॥
प्रतीच्यां वारुणी रक्षेद्वायव्यां मृगवाहिनी । उदीच्यां पातु कौबेरी ईशान्यां शूलधारिणी ॥२०॥
ऊर्ध्वं ब्रह्माणी मे रक्षेदधस्ताद्वैष्णवी तथा । एवं दश दिशो रक्षेच्चामुण्डा शववाहना ॥२१॥
जया मामग्रतः पातु विजया पातु पृष्ठतः । अजिता वामपार्श्वे तु दक्षिणे चापराजिता ॥२२॥
शिखां मे द्योतिनी रक्षेदुमा मूर्ध्नि व्यवस्थिता । मालाधरी ललाटे च भ्रुवौ रक्षेद्यशस्विनी ॥२३॥
नेत्रयोश्चित्रनेत्रा च यमघण्टा तु पार्श्वके । त्रिनेत्रा च त्रिशूलेन भ्रुवोर्मध्ये च चण्डिका ॥२४॥
शङ्खिनी चक्षुषोर्मध्ये श्रोत्रयोर्द्वारवासिनी । कपोलौ कालिका रक्षेत् कर्णमूले तु शङ्करी ॥२५॥
नासिकायां सुगन्धा च उत्तरोष्टे च चर्चिका । अधरे चामृताबाला जिह्वायां च सरस्वती ॥२६॥
दन्तान् रक्षतु कौमारी कण्ठदेशे तु चण्डिका । घण्टिकां चित्रघण्टा च महामाया च तालुके ॥२७॥
कामाक्षी चिबुकं रक्षेद्वाचं मे सर्वमङ्गला । ग्रीवायां भद्रकाली च पृष्ठवंशे धनुर्धरी ॥२८॥
नीलग्रीवा बहिः कण्ठे नलिकां नलकूबरी । स्कन्धयोः खड्गिनी रक्षेद् बाहू मे वज्रधारिणी ॥२९॥
हस्तयोर्दण्डिनी रक्षेदम्बिका चाङ्गुलीषु च । नखाञ्छूलेश्वरी रक्षेत् कुक्षौ रक्षेन्नरेश्वरी ॥३०॥
स्तनौ रक्षेन्महादेवी मनःशोकविनाशिनी । हृदये ललिता देवी उदरे शूलधारिणी ॥३१॥
नाभौ च कामिनी रक्षेद् गुह्यं गुह्येश्वरी तथा । मेढ्रं रक्षतु दुर्गन्धा पायुं मे गुह्यवाहिनी ॥३२॥
कट्यां भगवती रक्षेदूरू मे मेघवाहना । जङ्घे महाबला रक्षेत् जानू माधवनायिका ॥३३॥
गुल्फयोर्नारसिंही च पादपृष्ठे तु कौशिकी । पादाङ्गुलीः श्रीधरी च तलं पातालवासिनी ॥३४॥
नखान् दंष्ट्रकराली च केशांश्चैवोर्ध्वकेशिनी । रोमकूपेषु कौमारी त्वचं योगीश्वरी तथा ॥३५॥
रक्तमच्चावसामांसान्यस्थिमेदांसि पार्वती । अन्त्राणि कालरात्रिश्व पित्तं च मुकुटेश्वरी ॥३६॥
पद्मावती पद्मकोशे कफे चूडामणिस्तथा । ज्वालामुखी नखज्वालामभेद्या सर्वसन्धिषु ॥३७॥
शुक्रं ब्रह्माणी मे रक्षेच्छायां छत्रेश्वरी तथा । अहङ्कारं मनो बुद्धिं रक्षेन्मे धर्मधारिणी ॥३८॥
प्राणापानौ तथा व्यानमुदानं च समानकम् । वज्रहस्ता च मे रक्षेत् प्राणान् कल्याणशोभना ॥३९॥
रसे रूपे च गन्धे च शब्दे स्पर्शे च योगिनी । सत्त्वं रजस्तमश्वैव रक्षेन्नारायणी सदा ॥४०॥
आयू रक्षतु वाराही धर्मं रक्षतु पार्वती । यशः कीर्तिं च लक्ष्मीं च सदा रक्षतु वैष्णवी ॥४१॥
गोत्रमिन्द्राणी मे रक्षेत् पशून् रक्षेच्च चण्डिका । पुत्रान् रक्षेन्महालक्ष्मीर्भार्यां रक्षतु भैरवी ॥४२॥
धनेश्वरी धनं रक्षेत् कौमारी कन्यकां तथा । पन्थानं सुपथा रक्षेन्मार्गं क्षेमङ्करी तथा ॥४३॥
राजद्वारे महालक्ष्मीर्विजया सतत स्थिता । रक्षाहीनं तु यत् स्थानं वर्जितं कवचेन तु ॥४४॥
तत्सर्वं रक्ष मे देवि जयन्ती पापनाशिनी । सर्वरक्षाकरं पुण्यं कवचं सर्वदा जपेत् ॥४५॥
इदं रहस्यं विप्रर्षे भक्त्या तव मयोदितम् ॥पादमेकं न गच्छेत् तु यदीच्छेच्छुभमात्मनः ॥४६॥
कवचेनावृतो नित्यं यत्र यत्रैव गच्छति । तत्र तत्रार्थलाभश्व विजयः सार्वकालिकः ॥४७॥
यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम् । परमैश्वर्यमतुलं प्राप्स्यते भूतले पुमान् ॥४८॥
निर्भयो जायते मर्त्यः सङ्ग्रामेष्वपराजितः । त्रैलोक्ये तु भवेत्पूज्यः कवचेनावृतः पुमान् ॥४९॥
इदं तु देव्याः कवचं देवानामपि दुर्लभम् । यः पठेत्प्रयतो नित्यं त्रिसन्ध्यं श्रद्धयान्वितः ॥५०॥
देवीकला भवेत्तस्य त्रैलोक्ये चापराजितः । जीवेद्वर्षशतं साग्रमपमृत्युविवर्जितः ॥५१॥
नश्यन्ति व्याधयः सर्वे लूताविस्फोटकादयः । स्थावरं जङ्गमं चैव कृत्रिमं चैव यद्विषम् ॥५२॥
अभिचाराणि सर्वाणि मन्त्रयन्त्राणि भूतले । भूचराः खेचराश्चैव कुलजाश्चौपदेशिकाः ॥५३॥
सहजा कुलजा माला डाकिनी शाकिनी तथा । अन्तरिक्षचरा घोरा डाकिन्यश्च महारवाः ॥५४॥
गृहभूतपिशाचाश्च यक्षगन्धर्वराक्षसाः । ब्रह्मराक्षसवेतालाः कूष्माण्डा भैरवादयः ॥५५॥
नश्यन्ति दर्शनात्तस्य कवचेनावृतो हि यः । मानोन्नतिर्भवेद्राज्ञास्तेजोवृद्धिः परा भवेत् ॥५६॥
यशोर्वृद्धिर्भवेत् पुंसां कीर्तिवृद्धिश्च जायते । तस्मात् जपेत् सदा भक्तः कवचं कामदं मुने ॥५७॥
जपेत् सप्तशतीं चण्डीं कृत्वा तु कवचं पुरा । निर्विघ्नेन भवेत् सिद्धिश्चण्डीजपसमुद्भवा ॥५८॥
यावद्भूमण्डलं धत्ते सशैलवनकाननम् । तावत्तिष्ठति मेदिन्यां सन्ततिः पुत्रपौत्रिकी ॥५९॥
देहान्ते परमं स्थानं सुरैरपि सुदुर्लभम् । प्राप्नोति पुरुषो नित्यं महामायाप्रसादतः ॥६०॥
तत्र गच्छति गत्वासौ पुनश्चागमनं नहि । लभते परमं स्थानं शिवेन समतां व्रजेत् ॥६१
॥इति श्रीमार्कण्डेयपुराणे हरिहरब्रह्मविरचितं देवीकवचं समाप्तम् ।