कीलकस्तोत्रम्
ॐ नमश्चण्डिकायै मार्कण्डेय उवाच ।
ॐ विशुद्धज्ञानदेहाय त्रिवेदीदिव्यचक्षुषे । श्रेयःप्राप्तिनिमित्ताय नमः सोमार्धधारिणे॥१॥
सर्वमेतद्विजानीयान्मन्त्राणामपि कीलकम् । सोऽपि क्षेममवाप्नोति सततं जप्यतत्परः॥२॥
सिद्ध्यन्त्युच्चाटनादीनि कर्माणि सकलान्यपि । एतेन स्तुवतां देवीं स्तोत्रवृन्देन भक्तितः॥३॥
न मन्त्रो नौषधं तस्य न किञ्चिदपि विद्यते । विना जप्येन सिद्ध्येत्तु सर्वमुच्चाटनादिकम्॥४॥
समग्राण्यपि सेत्स्यन्ति लोकशङ्कामिमां हरः । कृत्वा निमन्त्रयामास सर्वमेवमिदं शुभम्॥५॥
स्तोत्रं वै चण्डिकायास्तु तच्च गुह्यं चकार सः । समाप्नोति स पुण्येन तां यथावन्निमन्त्रणाम्॥६॥
सोऽपि क्षेममवाप्नोति सर्वमेव न संशयः । कृष्णायां वा चतुर्दश्यामष्टम्यां वा समाहितः॥७॥
ददाति प्रतिगृह्णाति नान्यथैषा प्रसीदति । इत्थं रूपेण कीलेन महादेवेन कीलितम्॥८॥
यो निष्कीलां विधायैनां चण्डीं जपति नित्यशः । स सिद्धः स गणः सोऽथ गन्धर्वो जायते ध्रुवम्॥९॥
न चैवापाटवं तस्य भयं क्वापि न जायते । नापमृत्युवशं याति मृते च मोक्षमाप्नुयात्॥१०॥
ज्ञात्वा प्रारभ्य कुर्वीत ह्यकुर्वाणो विनश्यति । ततो ज्ञात्वैव सम्पूर्णमिदं प्रारभ्यते बुधैः॥११॥
सौभाग्यादि च यत्किञ्चिद् दृश्यते ललनाजने । तत्सर्वं तत्प्रसादेन तेन जप्यमिदम् शुभम्॥१२॥
शनैस्तु जप्यमानेऽस्मिन् स्तोत्रे सम्पत्तिरुच्चकैः । भवत्येव समग्रापि ततः प्रारभ्यमेव तत्॥१३॥
ऐश्वर्यं तत्प्रसादेन सौभाग्यारोग्यमेव च । शत्रुहानिः परो मोक्षः स्तूयते सा न किं जनैः॥१४॥
चण्डिकां हृदयेनापि यः स्मरेत् सततं नरः । हृद्यं काममवाप्नोति हृदि देवी सदा वसेत्॥१५॥
अग्रतोऽमुं महादेवकृतं कीलकवारणम् । निष्कीलञ्च तथा कृत्वा पठितव्यं समाहितैः॥१६॥॥
इति श्रीभगवत्याः कीलकस्तोत्रं समाप्तम्॥