श्रेयस्करीस्तोत्रम्
श्रेयस्करि शमनिवरिणि विद्वविद्ये स्वानन्दपूर्ण ह्रदये करुणातनो मे ।
चित्ते वस प्रियतमेन शिवेन सार्धं माङ्गल्यमातनु सदैव मुदैव मात: ॥ १ ॥
श्रेयस्करि श्रितजनोद्धरणैकदक्षे दाक्षायणि क्षपितपातकतूलराशे ।
शर्मण्यपादयुगले जलजप्रमोदे मित्रे त्रयीप्रसृमरे रमतां मनो मे ॥ २ ॥
श्रेयस्करि प्रणतपामरपारदानज्ञानप्रदानसरणिश्रितपादपीठे ।
श्रेयांसि सन्ति निखिलानि सुमङ्गलानि ततैव मे वसतु मानसराजहंस: ॥ ३ ॥
श्रेयस्करीति तव नाम गृणाति भक्त्या श्रेयांसि तस्य सदने च करी पुरस्तात् ।
किं किं न सिद्ध्यति सुमङ्गलनममालां धृत्वा सुखं स्वपिति शेषतनौ रमेश: ॥ ४ ॥
श्रेयस्करीति वरदेति दयापरेति वेदोदरेति विधिशंकरपूजितेति ।
वाणीति शंभुरमणीति च तारिणीति श्रीदेशिकेन्द्रकरुणेति गृणामि नित्यम् ॥ ५ ॥
श्रेयस्करि प्रकटमेव तवाभिधानं यत्रास्ति तत्र रविवत्प्रथमानवीर्यम् ।
ब्रह्मेन्द्ररुद्रमरुद्रादिगृहाणि सौख्यपूर्णानि नाममहिमा प्रथितस्त्रिलोक्याम् ॥ ६ ॥
श्रेयस्करि प्रणतवत्सलता त्वयीति वाचं श्रृणुष्व सरलां सरसाम च सत्याम् ।
भक्त्या नतोऽस्मि विनतोऽस्मि सुमङ्गले त्वत्पादाम्बुजे प्रणिहिते मयि संनिधत्स्व ॥ ७ ॥
श्रेयस्करीचरणसेवनतत्परेण कृष्णेन भिक्षुवपुषा रचितं पठेद्य: ।
तस्य प्रसीदति सुरारिविमर्दनीयमम्बा तनोति सदनेषु सुमङ्गलानि ॥ ८ ॥
यथामतिकृतस्तुतौ मुदमुपैति मातर्न किं यथाविभवदानत मुदमुपैति पात्रं न किम् ।
भवानि तव संस्तुतिं विरचितुं न चाहं क्षमस्तथापि मुदमेष्यसि प्रदिशसीष्टमम्ब त्वरात् ॥ ९ ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यकृष्णानन्दसरस्वतीविरचितं श्रेयस्करीसुमङ्गलस्तोत्रं समाप्तम् ।