Get it on Google Play
Download on the App Store

Abhilashaashtakam – अभिलाषाष्टकम्

एकं ब्रह्मैवऽऽद्वितीयं समस्तं
सत्यं सत्यं नेह नानास्ति किञ्चित् ।
एको रुद्रो न द्वितीयोव तस्थे
तस्मादेकं त्वां प्रपद्ये महेशं ॥ १ ॥
कर्ता हर्ता त्वं हि सर्वस्य शम्भो
नाना रूपेषु एकरूपोपि अरूपः ।
यद्वत् प्रत्यक् धर्म एकोऽपि अनेकः
तस्मात् नान्यं त्वां विनेशं प्रपद्ये ॥ २ ॥
रज्जौ सर्पः शुक्तिकायां च रौप्यं
नीरैः पूरः तन्मृगाख्ये मरीचौ ।
यद्वत् तद्वत् विष्वक् एषः प्रपञ्चः
यस्मिन् ज्ञाते तं प्रपद्ये महेशम् ॥ ३ ॥
तोये शैत्यं दाहकत्वं च वह्नौ
तापो भानौ शीत भानौ प्रसादः ।
पुष्पे गन्धः दुग्ध मध्येऽपि सर्पिः
यत्तत् शम्भो त्वं ततः त्वां प्रपद्ये ॥ ४ ॥
शब्दं गृह्णासि अश्रवाः त्वं हि जिघ्रेः
अग्राणः त्वं व्यङ्घ्रिः आयासि दूरात् ।
व्यक्षः पश्येः त्वं रसज्ञोऽपि अजिह्वः
कः त्वां सम्यक् वेत्ति अतः त्वां प्रपद्ये ॥ ५ ॥
नो वेद त्वां ईश साक्षात् विवेद
नो वा विष्णुः नो विधाताऽखिलस्य ।
नो योगीन्द्राः नेन्द्र मुख्याश्च देवाः
भक्तो वेदत्वां अतस्त्वां प्रपद्ये ॥ ६ ॥
नो ते गोत्रं नेश जन्मापि नाख्या
नो वा रूपं नैव शीलं न तेजः ।
इत्थं भूतोपि ईश्वरः त्वं त्रिलोक्याः
सर्वान् कामान् पूरयेः तत् भजे त्वाम् ॥ ७ ॥
त्वत्तः सर्वं त्वं हि सर्वं स्मरारे
त्वं गौरीशः त्वं च नग्नः अतिशान्तः ।
त्वं वै वृद्धः त्वं युवा त्वं च बालः
तत्वं यत्किं नासि अतः त्वां नतोऽहम् ॥ ८ ॥

इतर श्री शिव स्तोत्राणि पश्यतु ।

Shiva Stotram

Anahita
Chapters
Attala Sundara Ashtakam – अट्टालसुन्दराष्टकम् Abhilashaashtakam – अभिलाषाष्टकम् Anamaya Stotram – अनामय स्तोत्रम् Agastya Ashtakam – अगस्त्याष्टकम् Ardhanarishvara Ashtottara Shatanamavali – अर्धनारीश्वराष्टोत्तरशतनामावली Ardhanarishwara Stotram – अर्धनारीश्वर स्तोत्रम् Agastya Ashtakam – अगस्त्याष्टकम् Ardhanarishvara Ashtottara Shatanamavali – अर्धनारीश्वराष्टोत्तरशतनामावली Ardhanarishwara Stotram – अर्धनारीश्वर स्तोत्रम् Ardhanarishvara Ashtakam – अर्धनारीश्वराष्टकम् Ashtamurti Ashtakam – अष्टमूर्त्यष्टकम् Aarthi Hara Stotram – आर्तिहर स्तोत्रम् Ishana Stuti – ईशान स्तुतिः Sri Uma Maheshwara Stotram – श्री उमामहेश्वर स्तोत्रम् Sanghila Krita Uma Maheswara Ashtakam – उममहेश्वराष्टकम् (सङ्घिल कृतम्) Kalabhairava Ashtakam in Sanskrit – कालभैरवाष्टकम् Sri Gangadhara Stotram – श्री गङ्गाधर स्तोत्रम् Chandrasekhara Ashtakam – श्री चन्द्रशेखराष्टकम् Sri Chidambareswara Stotram – श्री चिदम्बरेश्वर स्तोत्रम् Teekshna Danshtra Kalabhairava Ashtakam – तीक्ष्णदंष्ट्र कालभैरवाष्टकम् Daridrya Dahana Shiva Stotram – दारिद्र्यदहन शिव स्तोत्रम् Dvadasa Jyothirlingani – द्वादश ज्योतिर्लिङ्गानि Dvadasa jyothirlinga Stotram – द्वादश ज्योतिर्लिङ्ग स्तोत्रम्