Get it on Google Play
Download on the App Store

Sri Gangadhara Stotram – श्री गङ्गाधर स्तोत्रम्

क्षीराम्भोनिधिमन्थनोद्भवविषात् सन्दह्यमानान् सुरान्
ब्रह्मादीनवलोक्य यः करुणया हालाहलाख्यं विषम् ।
निःशङ्कं निजलीलया कबलयन्लोकान्ररक्षादरा-
-दार्तत्राणपरायणः स भगवान् गङ्गाधरो मे गतिः ॥ १ ॥
क्षीरं स्वादु निपीय मातुलगृहे गत्वा स्वकीयं गृहं
क्षीरालाभवशेन खिन्नमनसे घोरं तपः कुर्वते ।
कारुण्यादुपमन्यवे निरवधिं क्षीराम्बुधिं दत्तवान्
आर्तत्राणपरायणः स भगवान् गङ्गाधरो मे गतिः ॥ २ ॥
मृत्युं वक्षसि ताडयन्निजपदध्यानैकभक्तं मुनिं
मार्कण्डेयमपालयत्करुणया लिङ्गाद्विनिर्गत्य यः ।
नेत्राम्भोजसमर्पणेन हरयेऽभीष्टं रथाङ्गं ददौ
आर्तत्राणपरायणः स भगवान् गङ्गाधरो मे गतिः ॥ ३ ॥
ओढुं द्रोणजयद्रथादिरथिकैः सैन्यं महत्कौरवं
दृष्ट्वा कृष्णसहायवन्तमपि तं भीतं प्रपन्नार्तिहा ।
पार्थं रक्षितवानमोघविषयं दिव्यास्त्रमुद्बोधयन्
आर्तत्राणपरायणः स भगवान् गङ्गाधरो मे गतिः ॥ ४ ॥
बालं शैवकुलोद्भवं परिहसत्स्वज्ञातिपक्षाकुलं
खिद्यन्तं तव मूर्ध्नि पुष्पनिचयं दातुं समुद्यत्करम् ।
दृष्ट्वानम्य विरिञ्चिरम्यनगरे पूजां त्वदीयां भजन्
आर्तत्राणपरायणः स भगवान् गङ्गाधरो मे गतिः ॥ ५ ॥
सन्त्रस्तेषु पुरा सुरासुरभयादिन्द्रादिबृन्दारके-
-ऽश्वारूढो धरणीरथं श्रुतिहयं कृत्वा मुरारिं शरम् ।
रक्षन्यः कृपया समस्तविबुधान् जित्वा पुरारीन् क्षणात्
आर्तत्राणपरायणः स भगवान् गङ्गाधरो मे गतिः ॥ ६ ॥
श्रौतस्मार्तपथे पराङ्मुखमपि प्रोद्यन्महापातकं
विश्वाधीशमपत्यमेव गतिरित्यालापवन्तं सकृत् ।
रक्षन्यः करुणापयोनिधिरिति प्राप्तप्रसिद्धिः पुरा
ह्यार्तत्राणपरायणः स भगवान् गङ्गाधरो मे गतिः ॥ ७ ॥
गाङ्गं वेगमवाप्य मान्यविबुधैः सोढुं पुरा याचितो
दृष्ट्वा भक्तभगीरथेन विनतो रुद्रो जटामण्डले ।
कारुण्यादवनीतले सुरनदीमापूरयत्पावनीं
आर्तत्राणपरायणः स भगवान् गङ्गाधरो मे गतिः ॥ ८ ॥
इति श्रीमदप्पयदीक्षितविरचितं श्रीगङ्गाधर स्तोत्रम् ।

इतर श्री शिव स्तोत्राणि पश्यतु ।

Shiva Stotram

Anahita
Chapters
Attala Sundara Ashtakam – अट्टालसुन्दराष्टकम् Abhilashaashtakam – अभिलाषाष्टकम् Anamaya Stotram – अनामय स्तोत्रम् Agastya Ashtakam – अगस्त्याष्टकम् Ardhanarishvara Ashtottara Shatanamavali – अर्धनारीश्वराष्टोत्तरशतनामावली Ardhanarishwara Stotram – अर्धनारीश्वर स्तोत्रम् Agastya Ashtakam – अगस्त्याष्टकम् Ardhanarishvara Ashtottara Shatanamavali – अर्धनारीश्वराष्टोत्तरशतनामावली Ardhanarishwara Stotram – अर्धनारीश्वर स्तोत्रम् Ardhanarishvara Ashtakam – अर्धनारीश्वराष्टकम् Ashtamurti Ashtakam – अष्टमूर्त्यष्टकम् Aarthi Hara Stotram – आर्तिहर स्तोत्रम् Ishana Stuti – ईशान स्तुतिः Sri Uma Maheshwara Stotram – श्री उमामहेश्वर स्तोत्रम् Sanghila Krita Uma Maheswara Ashtakam – उममहेश्वराष्टकम् (सङ्घिल कृतम्) Kalabhairava Ashtakam in Sanskrit – कालभैरवाष्टकम् Sri Gangadhara Stotram – श्री गङ्गाधर स्तोत्रम् Chandrasekhara Ashtakam – श्री चन्द्रशेखराष्टकम् Sri Chidambareswara Stotram – श्री चिदम्बरेश्वर स्तोत्रम् Teekshna Danshtra Kalabhairava Ashtakam – तीक्ष्णदंष्ट्र कालभैरवाष्टकम् Daridrya Dahana Shiva Stotram – दारिद्र्यदहन शिव स्तोत्रम् Dvadasa Jyothirlingani – द्वादश ज्योतिर्लिङ्गानि Dvadasa jyothirlinga Stotram – द्वादश ज्योतिर्लिङ्ग स्तोत्रम्